RAJ INFOTECH SYSTEM @ NETWORK

RAJ INFOTECH SYSTEM @ NETWORK
हरे राम हरे राम राम राम हरे हरे। हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे॥ हे नाथ मैँ आपको भूलूँ नही...!! हे नाथ ! आप मेरे हृदय मेँ ऐसी आग लगा देँ कि आपकी प्रीति के बिना मै जी न सकूँ.

Friday, August 17, 2012

बगलामूखी स्तुति


वक्रतुंड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥


बगलामूखी स्तुति
मध्ये सुधाब्धि – मणि मण्डप – रत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरण – माल्य – बिभूतिषताङ्गी देवीं स्मरामि धृत-मुद्गर वैरिजिह्वाम् ॥









।। संकट-नाशन-गणेश-स्तोत्रं ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ।
भक्तावासं स्मरेन्नित्यं आयुष कामार्थ सिद्धये । । १ । ।

प्रथमं वक्र-तुंडं च एकदंतं द्वितीयकं ।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकं । । २ । ।

लम्बोदरं पंचमं च षष्टम विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं । । ३। ।

नवमं भालचंद्रं च दशमं तू विनायकं ।
एकादशं गणपतिं द्वादशं तू गजाननं । । ४ । ।

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो । । ५। ।


विद्यार्थी लभते विद्यां धनार्थी लभते धनं ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं । । ६ । ।

जपेत् गणपति-स्तोत्रं षट्भिः मासैः फलं लभेत ।
संवत्सरेण सिद्धिं च लभेत् नात्र संशयः । । ७ । ।

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः । । ८। ।

। । इति श्रीनारदपुराणे संकट-नाशन-गणेश स्तोत्रं । ।

ॐ  सर्व  श्र्वरूपे  सर्वेशे  सर्वशक्ति  समन्विते
हयेभ्यस्त्रहिनो  देवी  दुर्गे  देवी  नमोस्तुते

ॐ त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं
उर्वारुकमिव बन्धनान मृत्योमुक्षिय  मामृतात

ॐ भुर्भुवः स्वः तत्सोवितुवरेण्यं ।
भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् ॥

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद  मातर्जगतो खिलस्य
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि  चराचरस्य

दश महाविद्या स्तुति
काली स्तुति
रक्ताsब्धिपोतारूणपद्मसंस्थां पाशांकुशेष्वासशराsसिबाणान् । शूलं कपालं दधतीं कराsब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥
तारा स्तुति
मातर्तीलसरस्वती प्रणमतां सौभाग्य-सम्पत्प्रदे प्रत्यालीढ –पदस्थिते शवह्यदि स्मेराननाम्भारुदे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रो कपालोत्पले खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥
षोडशी स्तुति
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीम् ईषत्फल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च ‍वरदं संविभ्रतीं भूतिदा ।
भ्राजन्तीं चतुरम्बजाकृतिकरैभक्त्या भजे षोडशीम् ॥
छिन्नमस्ता स्तुति
नाभौ शुद्धसरोजवक्त्रविलसद्बांधुकपुष्पारुणं भास्वद्भास्करमणडलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी पृष्ठस्थां तरुणार्ककोटिविलसत्तेज: स्वरुपां भजे ॥
त्रिपुरभैरवी स्तुति
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपपटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥
धूमावती स्तुति
प्रातर्यास्यात्कमारी कुसुमकलिकया जापमाला जयन्ती मध्याह्रेप्रौढरूपा विकसितवदना चारुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती सा देवी देवदेवी त्रिभुवनजननी कालोका पातु युष्मान् ॥
बगलामूखी स्तुति
मध्ये सुधाब्धि – मणि मण्डप – रत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरण – माल्य – बिभूतिषताङ्गी देवीं स्मरामि धृत-मुद्गर वैरिजिह्वाम् ॥
मातङगी स्तुति
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकंजांयुग्माम् ।
निलाम्भोजांशुकान्ति निशिचरनिकारारण्यदावाग्निरूपां पाशं खङ्गं चतुर्भिर्वरकमलकै: खेदकं चाङ्कुशं च ॥
भुवनेश्वरी स्तुति
उद्यद्दिनद्युतिमिन्दुकिरीटां तुंगकुचां नयनवययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुश पाशभीतिकरां प्रभजे भुवनेशीम् ॥
कमला स्तुति
त्रैलोक्यपूजिते देवि कमले विष्णुबल्लभे ।
यथा त्वमचल कृष्णे तथा भव मयि स्थिरा ॥

Bhagavati stotra

श्री  भगवति  देवी   नमो  वरदे ,
जय  पाप  विनासिनि  बहु  फलदे ,
जय  शुम्भ  निशुम्भ  कपलधरे ,
प्रणमामि  देवी  थु  नरर्थि   हरे1

जय  चन्द्र  दिवाकर  नेत्र  धरे ,
जय  पावक  भूषिथ  वक्त्र  वरे ,
जय  भैरव  देहानिलीनापरे ,
जय  अन्धक  दैथ्य  विसेशकरे .2

जय  महिष  विमर्धनि  सूल  करे ,
जय  लोक  समस्थाक  पाप  हरे ,
जय  देवी  पिथ  महा  विष्णुनुथे ,
जय  भास्कर  सकर  सिरोअवनाथे . 3

जय  शङ्मुग  सायुध  इषनुथे ,
जय  सागर  गामिनी  शंभुनुथे ,
जय  दुख  दरिद्र  विनास  करे ,
जय  पुत्र  कलथ्र  विवृधि  करे . 4

जय  नाक  विधर्षाणि  दुख  हरे ,
जय  व्याधि  विनासिनि  मोक्ष  करे ,
जय  वन्चिथ  दायिनि  सिधा  वरे . 5

येत्हद  व्यास  कर्थं  स्तोत्रं  यः  पदेन  नियथ  सुचि ,
गृहे  व  शुध  भावेन  प्रीथ  भगवथि  सदा .

Nava Durga stotra.

शैलपुत्री स्तुति

जगत्पजये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि।

सर्वात्मिकेशि कौमारि जगन्मातर्नमोsस्तु ते॥

ब्रह्मचारिणी स्तुति

त्रिपुरां त्रिर्गुणाधारां मार्गज्ञानस्वरूपिणीम् ।

त्रैलोक्यवन्दितां देवीं त्रिमूर्ति प्रणमाम्यहम् ॥

चन्द्रघण्डा स्तुति

कालिकां तु कलातीतां कल्याणहृदयां शिवाम् ।

कल्याणजननीं नित्यं कल्याणीं प्रणमाम्यहम् ॥

कूष्माण्डा स्तुति

अणिमाहिदगुणौदारां मकराकारचक्षुषम् ।

अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम् ॥

स्कन्दमाता स्तुति

चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जनीम् ।

तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम् ॥

कात्यायनी स्तुति

सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् ।

सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम् ॥

कालरात्रि स्तुति

चण्डवीरां चण्डमायां रक्तबीज-प्रभञ्जनीम् ।

तां नमामि च देवेशीं कालरात्रीं गुणशालिनीम् ॥

महागौरी स्तुति

सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनिम् ।

सन्तोषजननीं देवीं महागौरी प्रणमाम्यम् ॥

सिद्धिदात्री स्तुति

दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि ।

प्रणमामि सदा भक्तया दुर्गा दुर्गतिनाशिनीम् ॥

No comments:

Post a Comment